Essay

Ganeshotsav Essay In Sanskrit

गणेशपूजायाम् उपयुज्यमानानि पर्णानि माचीपुत्र, बृहती (कण्टकारी), बिल्व, दूर्वा, दत्तूर, बदरी, अपामार्ग (उत्तरणी), चूत (आम्र), करवीर, विष्णुक्रान्त, दाडिमी, देवदारु, मरुवक, सिन्धुवार, जाती, गणका, शमी, अश्वत्थ, अर्जुन, अर्क, भृङ्गराज, आश्मातक, गण्डलीकपत्राणि । यद्यपि तुलसी सर्वदेवप्रिया तथापि गणेशपूजायां तुलसीपत्रस्य उपयोगं न कुर्वन्ति ।

महाभारतं व्यासविरचितं गणेशलिखितम् इति प्रसिद्धम् । याज्ञवल्क्यस्मृतौ, बोधायनगृह्यसूत्रे, महाभारतस्य वनपर्व-अनुशासनपर्वयोः, गोभिलस्मृतौ, बाणभट्टस्य हर्षचरिते, वामनपुराणे, मत्स्यपुराणे, भविष्यपुराणे, अग्निपुराणे, जैनानाम् “आचारदिनकर”ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति ।

बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति ।

यत्रैकतुलसीवृक्ष: तिष्ठति द्विजसत्तम ।
तत्रैव त्रिदशास्सर्वे ब्रह्मविष्णुशिवादय: ॥
केशव: पत्रमध्यषु पत्राग्रेषु प्रजापति: ।
पत्रवृन्ते शिवस्तिष्ठेत्तुलस्या: सर्वदैव हि ॥
लक्ष्मी: सरस्वती चैव गायत्री चूतिका तथा ।
शची चान्या देवपत्न्य: तत्पुष्पेषु वसन्ति वै ॥

Facebook Comments
error: Content is protected !!