Essay

Ganesh Chaturthi Essay In Sanskrit

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । शिवगणानाम् अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च । आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम् इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा ।

त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म्भूर्भुवस्सुवरोम् इत्याशयं प्रकाशयति गाणपत्यथर्वशीर्षमहोपनिषत् । पुराणे इतिहासा गमादिषु तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । कलौ दुर्गाविनायकौ इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु बर्मा, मलेश्या, इण्डोनेशिया, चीना, सुमात्रा, जावा, जपान् इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।

विशेषावसरेषु यज्ञयागादिषु वा व्रताचरणेषु वा प्रतिदिनं पूजायां वा प्रथमं पूज्यमान: देव: गणेश: । गणेशचतुर्थ्यां पूज्यमान: गणेश: वरसिद्धिविनायक: इति उच्यते । तद्दिने यद्यपि गणेशस्य एव पूजा क्रियते तथापि विघ्नपरिहारकत्वेन प्रथमं सम्पूज्य अनन्तरं विशेषपूजां कुर्वन्ति । तद्दिने विशेषरूपेण मृत्तिकानिर्मितमूर्तीनाम् एव पूजा क्रियते ।

मृत्तिकाविग्रहे प्राणप्रतिष्ठापनं कृत्वा द्वारपालकपूजां कुर्वन्ति । अनन्तरं महायोगपीठं ध्यात्वा आधारशक्ति-पीठशक्त्यादीनि उपकरणानि सङ्कल्प्य पूजां कुर्वन्ति । तीव्रा-ज्वलिनी-नन्दा-भोगदा-कामरूपिणी-उग्रा-तेजोवती-सत्या-विघ्ननाशिनी इति नव महाशक्ती:, परिवारदेवता:, आयुधानि, वाहनानि, भूषणानि च ध्यात्वा तै: सर्वै: अलङ्कृतं सिद्धिविनायकम् आराधयन्ति । तस्य गणेशस्य वामभागे अवनता गजशुण्डा भवति ।

स्वर्णकान्तियुक्त: स: कोटिसूर्यप्रभावान्, महाकाय:, एकदन्त:, मूषकवाहन: च । तस्य चतुर्भुजेषु पाश-अङ्कुश-वरदाभयमुद्रा: भवन्ति । ध्यानानन्तरम् आवाहन-आसन-अर्ध्य-पाद्य-आचमनीय-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्र-यज्ञोपवीत-आभरण-गन्धाक्षता:-हरिद्रा कुङ्कुम-सिन्धूर-पुष्पादीनां समर्पणं कुर्वन्ति । गन्धे रक्तवर्णीय: गन्ध: गणेशस्य प्रिय: । द्वादशनामभि: तस्य द्वादश अङ्गानां पूजां कुर्वन्ति । गणेशस्य प्रियसंख्या २१ । तद्दिने २१ पर्णै: पत्रपूजाम् आचरन्ति ।

Facebook Comments
error: Content is protected !!