Essay

Essay On Ganeshotsav In Sanskrit

पत्राणां सारभूता त्वं भविष्यसि मनोरमे ।
कलांशेन महाभागे स्वयं नारायणप्रिया ॥
प्रिया त्वं सर्वदेवानां कृष्णस्य च विशेषत: ।
पूजा विमुक्तिदा नृणां मम त्याज्या च सर्वदा ॥ (ब्रह्मवैवर्तम्, गणेशखण्ड:)

इति वदन्ति पुराणानि । अत: गणेशपूजायां तुलसीपत्रस्य उपयोग: न क्रियते | पत्रेषु दूर्वा, पुष्पेषु जपाकुसुमं गणेशस्य प्रियतमम् । अत: अन्येषां पत्राणां पुष्पाणां च अभावे दूर्वाजपाकुसुमयो: तत्स्थाने उपयोगं कुर्वन्ति । पत्रपूजानन्तरं पुष्पपूजां कुर्वन्ति ।

करवीर, जाती, चम्पक, वकुळ, शतपत्र, पुन्नाग, मालती, केतकी, कल्हार, कुन्द, आतसी, किरिकर्णिका, पारिजातम् सेवन्तिका, सुगन्धराज, जपा, कुरवण्टिका, नन्द्यावर्त, द्रोण, मल्लिका, सुगन्धिकमल इत्यादीनि पुष्पाणि उपयुज्यन्ते । पुष्पपूजानन्तरं द्वादशनामावलि:, अष्ठोत्तरशतनामावलि:, अष्ठोत्तरसहस्रनामावलि: इत्यादिभि:, वेदमन्त्रै:, आगमशास्त्रै:, भक्तिश्लोकै:, स्तोत्रै: पूजां कृत्वा धूप-दीप-नैवेद्यादिकं समर्पयन्ति ।

नैवेद्यार्थं मोदकम्, अपूपं, शष्कुलीं, पृथुकं, मुद्ग-चणकनिर्मितभक्ष्यं, तिललड्डुकं, विविधफलानि, इक्षुं, दुग्ध-दधि-घृत-मधु-शर्करानिर्मितानि भक्ष्याणि एवं प्रकारेण षड्रसापेतं सर्वमपि समर्पयन्ति । नैवेद्येषु गणेशस्य प्रियं मोदकम् । तत्रापि नैवेद्यानां संख्यापि २१, प्रत्येकमपि २१ संख्याकम् अपि भवितुम् अर्हति ।

Facebook Comments
error: Content is protected !!