
Essay On Makar Sankranti In Sanskrit
मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम्। अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः। इदं पर्व तिलपर्व इत्यपि निर्दिश्यते। तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति। एतत् सूर्यस्य चलनसम्बद्धं पर्व। सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते।
सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम्। एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति। तत्र प्रमुखं सङ्क्रमणद्वयम्। कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति। कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति।
मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति। एतद्दिने एव स्वर्गः [स्वर्गस्य] द्वारोद्घाटनं क्रियते इति। परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि। तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन:।
अन्यानि सङ्क्रमणानि आचरितुम् अशक्त: एतदेकं सङ्क्रमणं वा आचरेत् इति वदति शास्त्रम्। शैत्यकाले अस्माकं शरीरे विद्यमान: तैलांश: शाखार्थं व्ययित: भवति। तेन शरीरे तैलांशस्य अभाव: भवति। तस्मात् शीतसम्बद्धा: रोगा: जायन्ते। नारिकेल-गुड-कलायमिश्रितस्य तिलस्य, इक्षुदण्डस्य, शर्कराभक्ष्यस्य च भक्षणेन अभाव: निवार्यते।

