Essay

Essay On Shri Ganesha In Sanskrit

वक्रतुंड महाकाय सूर्यकोटि समप्रभम् ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा।।

श्रीगणेश: गणानाम् इश: अस्ति तथा कुशल संघटक: अस्ति। अत: एव तस्य ‘गणेश’ इति यथार्थ नामधेयम् । श्री गणेश विद्याया: देवता। गणानां त्वां गणपतिं हवामहे इति गणेशस्य गण देवता रूपं ऋग्वेदे स्तूयते। त्वं ज्ञानमयो विज्ञानमयोऽसि इति तस्य स्वरूपं अथर्वशीर्षे वर्ण्यते। सः विघ्नान् हरति अत: जना: तं विघ्नहर्ता इति वदन्ति।

श्रीगणेशः सुखं यच्छति ततःसः सुखकर्ता अस्ति। सर्वे छात्रा: विद्यारम्भे गणेशम् अर्चन्ति। हरिता दूर्वाकुरा: तस्य अतीव प्रिया: तथा च रक्तवर्णं पुष्पं प्रियम् । गणेशाय मोदका: रोचन्ते।

भाद्रपद मासे शुक्लपक्षे चतुर्थ्यां तिथौ तस्य उत्सव: अस्ति। गणेशस्य चत्वार: हस्ता: सन्ति। तस्य शुण्डा गजवत, उदरं च विशाल: सन्ति। तस्य तुण्डं वक्र: अत: स: वक्रतुण्डः। तस्य शुण्डा सामर्थ्यस्य प्रतीक: अस्ति। यस्य माता उमादेवी, पिता यस्य च शङ्करः। श्री व्यास: गणेशाय महाभारतं कथयति।

श्रीगणेश: तं लिखति। ।।श्री वरदभूतये नमो नमः ।।

सर्वेषु मङ्गलकार्येषु श्रीगणेशस्य पूजा प्रथम भवति। शिवपार्वत्यो : एष: पुत्र:। एतस्य मुखं गजमुखाकारम् ,उदरं लम्बमानम् । तथापि तस्य भक्तेभ्य: एतद् रूपं नितरां रोचते। स्थूल: अपि गणेश: नृत्यकलायां प्रवीण: । पाश: तथा अङ्कुश: इति गणेशस्य शस्त्रद्वयम् । एकस्मिन् हस्ते स: मोदकपात्रं धारयति । एतत् तस्य प्रियं खाद्यम्। मूषक: तस्यवाहनम्। महर्षिणाव्यासेन मुखेन कथितं महाभारतं गणेशेन स्वहस्तेन लिखितम् इति आख्यायिका अस्ति । लेखनार्थं स्वस्य एकं दन्तम् उत्पाट्य स: तस्य लेखनी कृतवान् । अत: एकदन्त: इति तस्य नामधेयम् । विघ्नहर्ता देव: इति तस्य ख्याति: । अत: कार्यारम्भे जना: गणेशं प्रार्थयन्ते

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।

Facebook Comments
error: Content is protected !!