Essay On Ganesh Chaturthi Festival In Sanskrit
एकविंशतिसंख्याकान् मोदकान् घृतपाचितान् ।
नैवेद्यं सफलं दद्यां नमस्ते विघ्ननाशिने ॥ इति उक्तम् अस्ति ।
अनन्तरं करोद्वर्तनं, फल-ताम्बूल-सुवर्णपुष्प-भूषणसमर्पणम्, उत्तरनीराजनं, मन्त्रपुष्पश्रावणं, दूर्वासहितपुष्पाञ्जलिसमर्पणं, दक्षिणां, मनसः इच्छापूर्णफलप्रार्थनां च समर्प्य प्रदक्षिणनमस्करान् समर्पयन्ति ।
तदनन्तरं छत्र-चामर-नृत्य-गीत-वाद्य-स्तोत्र-आन्दोलिका-अश्ववाहन-गजवाहनादीन् उपचारान् यथाशक्ति प्रत्यक्षं वा संकल्परूपेण वा समर्पयन्ति । पूजानन्तरं सत्पात्राय वस्त्रद्वयसहितस्य गणेशविग्रहस्य दानं कुर्वन्ति । एतत् उपायनदानम् इति उच्यते । पूजान्ते प्रसन्नार्घ्यान् समर्प्य उद्वासनं कुर्वन्ति । उद्वासनावसरे
यान्तु देवगणास्सवेर् पूजामादाय मत्कृतां ।
इष्ठकाम्यार्थसिध्यर्थं पुनरागमनाय च ॥
यथासुखं यथास्थानम् उद्वासयामि ।
शोभनार्थं क्षेमाय पुनरागमनाय च ॥ इति वदन्त: देवविग्रहं दक्षिणभागं प्रति किञ्चित् अपसारयन्ति ।
उद्वासनानन्तरं तं मृत्तिकाविग्रहं घण्टानादादिमङ्गलवाद्यसहितं यथाशक्तिवैभवेन वीथीषु शोभायात्रायां नीत्वा कूप-पुष्करिणी-सरोवर-नदीषु कुत्रचित् विसर्जयन्ति । विसर्जनात् पूर्वं जलाशयतीरे अपि एकवारं संक्षेपपूजां कृत्वा एव विसर्जनपद्धति: अपि अस्ति । विसर्जनम् अपि कुत्रचित् पर्वदिने एव कुत्रचित् दिनत्रयानन्तरं वा सप्ताहनन्तरं वा कुर्वन्ति । मङ्गलवासरे गणेशस्य विसर्जनं न कुर्वन्ति ।
गणेश: आकाशस्य अभिमानिदेवता । अस्य शुण्डा ओङ्कारस्य प्रतीका । बृहत् उदरं ब्रह्माण्डस्य सङ्केतम् । उदरे बद्ध: सर्प: ब्रह्माण्डं वहन् आदिशेष: । विशालौ कर्णौ ज्ञानद्योतकौ । हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत: । एकदन्त: अद्वैतप्रतीक: च ।