दीवाली पर संस्कृत निबंध
Essay on Diwali in Sanskrit: नमस्कार दोस्तों, यहां पर हमने संस्कृत में दीपावली पर निबंध शेयर किये है। इससे पहले हम दिवाली पर हिंदी निबंध, दिवाली पर बधाई संदेश, शायरी, स्टेटस आदि शेयर कर चुके है जिसे आप यहां क्लिक करके जरूर पढ़ें।
यहां पर शेयर किये गये संस्कृत निबंध (Sanskrit Nibandh) सभी कक्षाओं के विद्यार्थियों के लिए मददगार साबित होंगे। ये Sanskrit Essay हमने निम्न प्रश्नों को ध्यान में रखते हुए लिखे है: 10 Sentences in Sanskrit on Diwali, दीपावली पर निबंध संस्कृत में (Deepawali Par Nibandh Sanskrit Me), दीवाली पर संस्कृत में 10 वाक्य आदि।
दीवाली पर संस्कृत निबंध | Essay on Diwali in Sanskrit
10 Lines on Diwali in Sanskrit
- दीपावलिः प्रतिवर्षे कार्तिकमासस्या अमावस्यायों तिथौ मान्यते।
- दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्ति।
- दीपावलि इत्युक्ते दीपानाम् आवलिः।
- कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व।
- दीपावलि दीपानां उत्सवः अस्ति।
- रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति।
- प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते।
- बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति।
- भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति।
- जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति।
Short Sanskrit Essay on Diwali
कविकुलगुरुणा कालिदासेन अभिज्ञानशाकुन्तले लिखितम् यत् ‘उत्सवप्रियाः खलु मनुष्याः’। मानवाः नाम सामाजिक प्राणिनः। अतः ते उत्सवप्रियाः। मम प्रियः उत्सवः दीपावली दीपोत्सवः वा वर्तते। मह्यम् एतत् पर्व अतीव रोचते। एष: धार्मिकोत्सवः अस्ति। अस्मिन् उत्सवे बालाः युवका: च नवनवानि वस्त्राणि धारयन्ति। स्फोटकानां स्फोटनं च भवति।
सर्वे हर्षपूर्णाः भवन्ति। दीपावलीदिने लक्ष्मीपूजनं भवति। व्यापारिणः नवानि व्यापारपुस्तकानि आरभन्ते। जनाः स्वमित्रैः स्वजनैः च सम्मिलन्ति अभिवादयन्ति च। सर्वे अस्मिन् पर्वणि प्रसन्नाः। दीपावलिः पावनताया, उल्लासस्य च प्रतीकमास्तिक्था दीपक: अंधकारं नाशयति तथैव बयमपि अज्ञानस्य, भेदभावस्य, घणायाः च अन्धकार नाश्याम। अयं अस्य पर्वस्य संदेशः अस्ति।
Diwali Essay in Sanskrit
सर्वे मानवाः उत्सवप्रियाः सन्ति। भारतीयमहोत्सवेषु दीपावली उत्सवस्य स्थानं महत्वपूर्णमस्ति। यदा दीपानाम् आवल्यः प्रज्वाल्यन्ते तत् दीपावली उच्यते। अयमुत्सवः प्रतिवर्षं कार्तिक मासस्य कृष्णपक्षस्यामावस्यां महता उत्साहेन जनैः समायोज्यते। अमावस्यातः पूर्वमेव जनाः स्वेषां गृहाणां स्वच्छतां कुर्वन्ति, भवनानि सुघया लिम्पन्ति, द्वाराणि रञ्जयन्ति, नवीनमूर्ति-चित्रैश्च गृहाणि अलंकुर्वन्ति।
दीपावली-दिवसे कान्दविकानामापणेषु विविधरागरञ्जितानि, बहुविधमिष्टान्नानि आकाशं स्पृशन्ति इव दृश्यन्ते। सर्वत्र चित्राणां पंक्तयः आपणानां शोभा वर्धयन्ति। रात्रौ अमावस्याः अंधकारे गृहाणामुपरि प्रज्वलिताः लघुदीपकपंक्तयः प्रकाशन्ते। जनाः नूतनवस्त्राणि धारयन्ति। रात्रौ लक्ष्मीपूजनं कुर्वन्ति। पूजान्ते स्वामित्रेभ्यो बांधवेभ्यश्च मिष्टानं वितरन्ति, एवं परस्पर-स्नेहभावं वर्धयते। बालकाः युवकाश्च आग्नेयक्रीडनकैः क्रीडन्ति। अस्मिन् दिने व्यवसायिनो नव्यासु पञ्जिकासु आयव्ययं लिखन्ति।
इदं कथ्यते यत् प्रभुरामचन्द्रः रावणं हत्वा स्वानुजेन लक्ष्मेण, भार्यया सीतया च सह कार्तिकमावस्यामेव अयोध्यामागतः आसीत्। तदा अयोध्यावासिनः तेषां स्वागतार्थं दीपमालाः प्रज्वाल्यन्। तदाप्रभृति अद्यावधि सर्वे भारतीयाः इमं उत्सवमतीवोल्लासेन मानयन्ति। किन्तु अत्र एकः महान् दोषः अस्ति, यत् दीपावल्याः पावनावसरे अपि केचन जनाः द्यूतक्रीडां कुर्वन्ति अतः अस्य उत्सवस्य पावनत्वं नश्यन्ति ते।
द्यूतक्रीडाव्यसनं दूरतः परित्याज्यं यतः अनेन व्यसनेन धनं विनाश्यते, अयमुत्सवः दूषयते च। अस्मिन् पुण्यपर्वणि द्यूतक्रीडा पूर्णतः त्याज्या एव तथा अस्माभिः प्रसन्नतया प्रतिवर्षमयमुत्सवः सोल्लासं, सानन्दं च मानयितव्यः। अयं दिवज्ञः महर्षि दयानन्दस्य निर्वाण दिवसः अस्ति स महान आत्मा विश्वेभ्यः जनेभ्यः प्रकाश कृत्वा स्व प्राणान् अत्यजत्।
Essay in Sanskrit on Diwali Festival
अस्माकं भारतवर्ष प्रतिवर्ष बहूनि पाणिमान्यन्ते। तेष पर्वेष दीपावालि: हिन्दुनों पवित्रं पार्वमस्ति। इंद्र कथ्यते यत् अस्मिन् एव दिन श्रीराम रावणादि राक्षसान् निहत्य सीतया लमाणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन्। तदा अयोध्यावासिनः प्रसन्नी भूत्वा स्वहिप राजमागेषु। च दीपकान् प्रज्वालयन्। जाना श्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्।
भारतवर्षस्य एकः महान् उत्सवः अस्ति। दीपावलि इत्युक्ते दीपानाम् आवलिः। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति। कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व। सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति।
दीपानां प्रकाशः अन्धकारम् अपनयति। एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति। प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते। दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति। पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति।
रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति। सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति। ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति। बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति।
अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति। एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति। अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति। अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति।
Long Essay on Diwali in Sanskrit Language
दीपावल्युत्सवो भारतस्य सर्व प्रसिद्धः उत्सवः अस्ति। सर्वे देशवासिनः सर्वेषु प्रदेशेषु दीपावल्युत्सवं दीपमाला प्रज्वाल्य सम्भावयन्ति। विदेशेष्वपि भारतवंशजा इभमुत्सवं न विस्मृतवन्तः। अयमुत्सवः कातिकमासस्यामावस्यायां मान्यते। प्रमुखतया ऽस्य सम्बन्धो रामकथया सह वर्तते।
चतुर्दशवर्षवनवासानन्तरम् अयोध्या प्रत्यागते रामे नगरवासिनः प्रमुदिताः स्वगृहेषु दीपानि प्रज्वाल्य अपारं मोदं प्रकटितवन्तः। तदाप्रभूत्येव प्रतिवर्षमयमुत्सवो मान्यते। बहुषु, स्थानेषु नववर्षोंत्सवरूपेण दीपावल्या महत्त्वमस्ति। व्यापारिणो वाषिर्क लेखमस्मादेव दिनादारभन्ते।।
जैनसम्प्रदायसंस्थापकस्य भगवतो महावीरस्य, आर्यसमाजसंस्थापकस्य स्वामिदयानन्दस्य च निशिदिवसोऽप्ययन।। पौराणिक कथा वर्तते यत् प्रथम आयुर्वेदाचार्यो धन्वन्तरिरपि लोकेभ्य: संजीवनौषधं दातुमस्माद्दिनात् दिनद्वयपूर्वं प्रकटितः।
दिनमेतत् समृद्धिदिबसरूपेण मान्यते। गृहाणि संशोध्यन्ते नानाविधचित्रपताकातोरणादिभिश्च विभूष्यन्ते। पण्यवीथीनां कान्दविकानां च समृद्धिः नयनगोचरतां भजति। रात्र सुमनोहरपरिधानालंकृता जनाः परस्परं सभाजयन्ति, गृहेषु लाजैः मिष्टान्नैः च यज्ञादिकं लक्ष्मीगणेशपूजनं च विदधति। ततो दीपमालाद्योतितानि सर्वेषां गृहाणि अपूर्वा कांचिद् अभिख्यां (शोभां) धारयन्ति स्मयन्त इव। बालयुवकाः विविधैरग्निक्रीडनकैः क्रीडन्ति। नगरे नगरे विविधेषु प्राङ्गणेषु दीपावलीमेलकान्यायोज्यन्ते।
परम्परयात्रैको दोषोऽपि समाजे समुद्भूतः। केचन जनाः चूतमप्यस्मिन् दिने ‘धर्म’ इति आचरन्ति। परन्तु वयं जीनामो यत् द्यूतं न तु समृद्धेरपि तु विनाशस्य कारणमेव। लक्ष्मीस्तेन न प्रसीदति, रुष्टैव भवति।
वस्तुतः उत्सवोऽयं सर्वेभ्यो नवजीवनस्य संमृद्धेः परिशुद्धेश्च सन्देशं ददाति। प्रकृतिरपि वर्षतरनन्तरं सर्वत्र प्रसन्ना विमला च दृश्यते। अन्धकारे प्रकाशस्य, अज्ञाने च ज्ञानस्य विजयरूपोऽयमुत्सवः सर्वानस्मान् धर्माचरणाय ज्ञानोपार्जनाय च प्रेरयति।
******
हम उम्मीद करते हैं आपको यह “दीवाली पर संस्कृत में निबंध (Essay on Diwali in Sanskrit)” पसंद आया होगा। इसे आगे शेयर करना ना भूलें। आपको यह कैसा लगा, हमें कमेंट बॉक्स में जरूर बताएं।