Sikkim Project in Sanskrit | DailyHomeStudy
DailyHomeStudy : Sikkim Project in Sanskrit. Full Details about Sikkim State is given in Sanskrit Language.
सिक्किम: राज्य:
छात्रस्य/छात्राया:नाम=……………..
अनुक्रमांक:……………………
देशस्य पूर्वोत्तरभागे स्थितम् अतीव रमणीयं राज्यं सिक्किम:।
• सुन्दरपर्वतै: घाटिभिश्च युतम् इदं राज्यं पर्यटकाणाम् आकर्षणकेन्द्रम्।
अयं हिमालयस्य आन्तरिकपर्वतश्रृंखलाया: एक: भागः।
सिक्किम: भारतस्य द्वाविंशतितमं राज्यं वर्तते।
• जनसंख्यादृष्ट्या भारतस्य द्वितीयं न्यूनजनसंख्यरायुतं राज्यं वर्तते।
सिक्किमस्य सामान्यपरिचय:
राज्यपाल: – श्रीनिवासः दादासाहेब पाटिलः
मुख्यमंत्रिण: – पवन: चामलिंग: (सिक्किम डेमोक्रेटिक फ्रंट)
आधिकारिक: वेबसाइट – www.sikkim.gov.in
स्थापना दिवस: – 15 मई 1975
क्षेत्रफल: – 7,096 वर्ग किमी
घनत्व: – 86 प्रति वर्ग किमी
जनसंख्या (2011) – 610,577
पुरुषाणां जनसंख्या (2011) – 323,070
स्त्रिणां जनसंख्या (2011) – 287,507
जनपद:- चत्वार
राजधानी – गंगटोक
नद्या: – तीस्ता, चोलामु, रंगीत
भाषा – नेपाली, लिम्बु: , माझी, मझवार: , सिक्किम: , शेरपा: , तमांग: , तिब्बती, आंग्ल, हिंदी इत्यादय:
निकटवर्ती राज्य: – पश्चिम बंगाल
राजकीय: पशु: – लाल पांडा
राजकीय: पक्षिण: – रक्त मनाल
राजकीय: वृक्ष: – बुरांस
राजकीय: पुष्प: – नोबल आर्किड
साक्षरता दर: (2011) – 87.75%
1000 पुरुषेषु स्त्रिय: – 889
विधानसभा निर्वाचन: क्षेत्र: – 32
संसदीय: निर्वाचन: क्षेत्र: – 1
भारतस्य पूर्वोत्तरदिशायां नेपालभूटानयो: मध्ये रमणीय: सिक्किमप्रदेश: अस्ति । अत्र पर्वतेषु उच्चतमा पर्वतश्रृङ्खला ‘ कञ्चनजंगा ‘ अस्ति । एतेषु अनेका : पर्वता: हिमेन आच्छादित: । हिमात् निसृता: जलधारा: अस्य दक्षिणपश्चिमे नदीरूपै: वहन्ति , तेषु ‘तीस्ता’ ‘रगीत’ ‘चोलामु’च प्रमुखे । सिक्किमवासिन: तीस्तां ‘सिक्किमस्य जीवनरेखा ‘ इति कथयन्ति ।
अस्मिन् राज्ये अष्टविंशति पर्वतशिखराणि , एकविंशति: हिमान्य: द्विशताधिका: तडागा: , शताधिका: नद्य: अनेके उष्णजलप्रपाता: च सन्ति । एतै: राज्यस्य प्राकृतिकसौन्दर्यं वर्धते । तडागेषु चांगु , गुरुडोंग्मार ,खेचियोपली च विशाला: दर्शनीया: च सन्ति । पञ्च उष्णजलप्रपाता: युमथांग , बोरांग , रालांग , तामचु , युमीसामडोंग च अतीव रमणीया: सन्ति । पर्यटका: त्वचारोगिण: च अस्मिन् स्नातुम् आगच्छन्ति ।
अयं प्रदेश: चतुर्षु चनपदेषु विभाजित: अस्ति । जनपदानां राजधान्य: क्रमेण गंगटोक: गेंजिग: , मंगन: , नामची च सन्ति । गंगटोके ‘ ताशी ‘ नामकं दृश्यकेन्द्रम् अस्ति यस्मात् पर्यटका: हिमालयपर्वतमालाया: उन्नतानि हिमाच्छादितानि शिखराणि द्रष्टुं समर्था:भवन्ति । अस्मिन्नेव नगरे ‘ ठाकुरवाड़ी’ नामकं देवालयं अतिमनोहरं दर्शनीयं च अस्ति ।दक्षिणजनपदे एकस्मिन् गुहायां स्वयंप्रकाशितं शिवलिङ्गम् अस्ति । येन गुहायां अपि प्रकाश: भवति ।
सिक्किमराज्ये दशहरा दीपावली च उत्साहने मन्येते । अत्र बौद्धा: मुख्यरूपेण निवसन्ति , अत: बौद्धविहाराणां ,मठानां पीठानां च बाहुल्यम् अस्ति । एते सर्वे भव्या: दर्शनीया: च । एतेषु प्रमुखा: पेमायंगत्से , ताशीडिंग , फोडोंग , फेन्सांग , रुमटेक , युकसोम रोलांग च सन्ति ।
अत्र तिब्बतस्य नववर्षं ‘ लोसरं ‘ प्रतिवर्षं दिसम्बरमासे मन्यते । अस्मिन्नवसरे सप्ताहस्य राजकीय- अवकाशस्य घोषणा अपि भवति ।
OR
For Long Project use the following
सिक्किम-राज्यस्य अस्तित्वं 1642 तमे वर्षे प्रकाशे आगतम्। ‘ख्येबुक्सा’ इति राज्ञः पञ्चमवंशजेन फुन्त्सोंगनामग्यालेन अत्र राजतन्त्रस्य स्थापना कृता सः अत्रत्यः प्रथम: चोग्याल: अर्थात् राजा आसीत्। तदनन्तरं तस्य पुत्रेण तेन्सुंग नामग्यालेन पदभारं गृहीतम्। तेन अस्य राजधानी च युक्सोमस्थाने ‘रबदेन्तसे’ इति विहिता।
1700 तमे वर्षे सिक्किमस्योपरि भूटानस्य आक्रमणं जातम् । अनेकवारं नेपालभूटानदेशाभ्याम् अत्र आक्रमणं कृतम्। 1817 तमे वर्षे सिक्किम-राज्यस्य राजा ईस्टइंडियाकम्पन्या सह सन्धिं कृतवान्। यदनुगुणं सिक्किमस्य सुरक्षाव्यवस्था सुनिश्चिता नेपालाधिकृतं सिक्किमस्य भूभागञ्च पुनरपि सिक्किमाय प्रत्यर्पितम्। एषः सन्धि: ‘तितालिया’ नाम्ना ज्ञायते तितालिया नामकस्थाने हस्ताक्षरत्वात्। इत्थम् अयं ‘प्रोटेक्टोरेट स्टेट’ अभवत्।
सिक्किमराज्यं भारतस्य द्वाविंशतितमं राज्यं वर्तते। 16 मई 1975 तमे वर्षे सिक्किमस्य भारतराज्यरूपेण औपचारिक घोषणा जाता। तेन सहैव राजतन्त्रस्य समापनं लोकतन्त्रस्य च आरम्भ: जात:।
सिक्किमस्य भौगोलिक-प्राकृतिकस्थितिः
. सिक्किमः भारतस्य पूर्वोत्तरभागे स्थितम् एकं पर्वतीयं राज्यम् अस्ति ।
अस्य अङ्गुष्ठाकारस्य राज्यस्य उत्तरदिशि तिब्बतक्षेत्ं, पश्चिमदिशि नेपालम् , दक्षिण-पूर्वदिशि च भूटानदेशः विद्यते ।
अस्य दक्षिणदिशि पश्चिमबंगालराज्यं विद्यते । • गंगटोकनगरं सिक्किमस्य राजधानी बृहत्तमं नगरं च अस्ति।
सिक्किमभ्रमणाय उपयुक्त: काल:
सिक्किमस्य उत्तरीक्षेत्रं वर्षस्य चतुर्मासेषु हिमाच्छादितं भवति।
. ग्रीष्मे अत्र वातावरणं सुखदम् आनन्दप्रदं च भवति।
अत्रत्य: मॉनसूनसमय: भयावह: भवति, यतो हि तस्मिन् काले अत्र भूस्खलनस्य अत्यधिकं भयं भवति।
अत्र वर्णितं सर्वविधं जलवायुगतं विवरणं ध्यात्वा अप्रैल-मईमासयो: अत्र पर्यटनं सुकरं श्रेष्ठं च भवति।
सिक्किमस्य प्राकृतिकं वैशिष्ट्यम् –
• सिक्किमस्य भौगोलिक क्षेत्रं न्यूनं विद्यते परञ्च भौगोलिकदृष्ट्या प्राकृतिकदृष्ट्या च एतत् अत्यधिकं विविधतापूर्णम् अस्ति ।
• विश्वस्य तृतीयं बृहत्तमं पर्वतशिखरं कंचनजंगा इति नामधेयं सिक्किमस्य उत्तरपश्चिमभागे नेपालसीम्नि अस्ति ।
स्वच्छता प्राकृतिक सौन्दर्य च सिक्किमस्य प्रमुख वैशिष्टयम् अस्ति ।
अस्मिन् राज्ये 28 पर्वत शिखरों, 227 उच्चतडागाः, 80 हिमनद्यः च सन्ति
सिक्किमस्य संस्कृति: ।
सिक्किम: भारतस्य तत् राज्यमस्ति यत् उच्चपर्वतेषु प्रसृतायै हरितिमायै प्राकृतिक सौन्दर्याय च विश्वप्रसिद्धम् अस्ति। लक्षसंख्यकाः पर्यटकाः प्रतिवर्षम् अत्र आयान्ति। एतदेकं लघुराज्यं विद्यते यत्र जनघनत्वमपि अतिन्यूनम् अस्ति। सिक्किम: न केवलं प्राकृतिकदृष्ट्या रमणीयम् अपितु सांस्कृतिकदृष्ट्या अपि समृद्धम् अस्ति । अस्मिन्। परियोजनाकार्ये वयं सिक्किमस्य सांस्कृतिकपक्षस्य परिचयं प्राप्नुमः।
धार्मिक-उत्सवाः
सिक्किमराज्ये हिन्दूधर्म: बौद्धधर्मश्च प्रामुख्येण मान्येते। तिब्बततः भूटानतश्च समागताः जनाः बौद्धधर्मम् अनुपालयन्ति। सिक्किमराज्ये सर्वेषां धर्माणाम् उत्सवाः उत्साहेन मान्यन्ते। हिन्दूत्सवैः साकं नेपाली-उत्सवाः अपि अत्र अनुपाल्यन्ते। बौद्धधर्मस्य उत्सवेषु द्रुकपेसी-पांग लुबसोल-ल्हाबाब-ड्युचेन- लॉसोंग-दासेन च प्रमुखाः सन्ति। एतदतिरिक्तमत्र माघ संक्रान्तिः, रामनवमी, नामसूंग-लोसरोत्सवः दुर्गापूजा, होलिकोत्सवः, विजयदशमी, दीपोत्सवः, क्रिसमसदिवसः, नववर्षोत्सवः च प्रमुखतया मान्यन्ते।
नृत्यसङ्गीतादयः
सिक्किमस्य जनाः मुख्यतः बौद्धधर्मे विश्वसन्ति। तस्य प्रभावात् सिक्किमस्य जनानां दैनिक जीवन सरलम् अस्ति। विविध- उत्सवेषु अत्र सामूहिक नृत्यं भवति। अत्र मुख्यतया लेप्चा- भूटिया-तिब्बती जना: च निवसन्ति। एतेषां भिन्नानि सामूहिकनृत्यानि सन्ति। सिक्किमस्य मास्कनृत्यम् अतीवरोचकं बहुप्रसिद्धं चास्ति ।
वेश भूषा
सिक्किमस्य वेशभूषा तत्रत्यां विविधतां प्रदर्शयति। भारतस्य अन्यासां जनजातीनां तुलनायां सिक्किमस्य भूटियाजनजात्याः वेशभूषा बहुभिन्ना विद्यते। पुरुषा: ‘शंबो’ इति वस्त्रनिर्मितं युतकं उरुकं च धरन्ति। महिलानां वेशभूषा इतोऽपि विशिष्टा विद्यते।
निवासस्थानानि
सिक्किमे प्रायशः अधिकांशजना: ग्रामीणाः सन्ति। सिक्किमे गृहनिर्माणे वंशवृक्षस्य बाहुल्येन प्रयोग: भवति । गृहस्य आधारभागे कठोरवंशवृक्षः भित्तिषु च कोमल वंशवृक्षः प्रयुज्यते। आवासे ऊष्मणः संरक्षणार्थ वंशवृक्षावरणस्य उपरि गोपुरीषस्य लेपनमपि क्रियते। सिक्किमस्य उच्चभागेषु अधिकांशतया काष्ठेनैव गृहाणि निर्मितानि भवन्ति।
क्रीडा: खाद्यपदार्थाः च, च.
अत्रत्यजनजातिषु विविधाः क्रीडाः प्रचलिता: सन्ति। आधुनिकक्रीडासु पादकन्दुकं क्रिकेटं च अत्रत्य जनानां प्रियम् अस्ति। खाद्यपदार्थेषु नूडल-आधारितव्यञ्जनानि यथा-थुक्पा-थान्तुक चाउमीन-फाख्तु-ग्याथुक इत्यादीनि मुख्यानि सन्ति। शूकर मांस- भक्षणमपि अत्रत्यजनानां प्रियमस्ति । उत्पादशुल्के न्यूने सति अत्रत्यजना: पर्याप्तरूपेण मदिरापानं कुर्वन्ति।
सिक्किमगमनाय मार्गविवरणम्
सिक्किमस्य स्वकीयं वायुस्थानकं रेलवे-नेटवर्क’ इत्यपि च नास्ति।
• परञ्च अत्र मार्गाणां विस्तृतं जालम् अस्ति।
अत: वायुमार्गत: अत्र आगमनाय पश्चिम-बंगाले स्थितं बागडोगरा’ इति स्थानं प्राप्तव्यम्।
रेलमार्गत: आगमनाय पश्चिम-बंगालस्य ‘न्यू-जलपाईगुड़ी इति स्थानं गन्तव्यम्। ततः सिक्किमस्य सर्वाणि दर्शनीय स्थलानि सम्यक्तया संयुक्तानि सन्ति।
सिक्किमस्य दर्शनीयस्थलानि –
सिक्किमराज्ये अनेकानि दर्शनीयस्थलानि सन्ति ।
एतेषु गंगटोक-युक्सोम- सोम्गोलेक-नाथुलादर्रा-पेलिङ्ग-रूमटेकमोनास्टरी इत्यादीनि प्रमुखानि सन्ति
सिक्किमे प्रतिवर्षं नियमितरूपेणहिमपातः भवति ।
एतस्मात् कारणात् पर्वतारोहिणामपि एतत् प्रियस्थानम् अस्ति। * हिमसम्बद्धाः नैकाः क्रीडा अपि अत्र आयोजित भवन्ति ।
सिक्किमस्य जनसांख्यकीयस्थितिः
सिक्किमराज्यस्य अधिकांशनिवासिनः मूलतः नेपालीजनाः सन्ति। ये नवदशशताब्द्यां सिक्किमे प्रविष्टा। भूटिया जनजातीयाः जनाः सिक्किमस्य मूलनिवासिनः कथयितुं शक्यन्ते यद्यपि एते चतुर्दशशताब्द्यां
तिब्बतं समागताः। लेण्चा जनाः अपि अत्र पर्याप्तमात्रायां निवसन्ति। हिन्दूधर्मः राज्यस्य मुख्यः धर्म: अस्ति । एतदतिरिक्तं बौद्धधर्मस्य ईसाईधर्मस्य चापि अनुयायिनः अत्र निवसन्ति। सिक्किमस्य मुख्या भाषा नेपाली अस्ति। आग्लं हिन्दी च योजयित्वा अत्र प्रायः विंशत्यधिकभाषा: प्रयुक्ताः भवन्ति।
गंगटोकनगरं सिक्किमस्य प्रमुखं नगरम् अस्ति। अत्र अधिकांश जनसंख्या ग्रामीणा अस्ति। सिक्किम-मणिपाल-विश्वविद्यालय अत्रत्य: प्रमुखः विश्वविद्यालयः विद्यते। अत्र प्रायः 1600 सर्वकारीयाः विद्यालयाः सन्ति। उच्चशिक्षायै अत्रत्याः अनेके छात्राः यूनः च कोलकाता सिलीगुडी वा गच्छन्ति।
आजीविकायाः साधनानि
सिक्किम: एकं कृषिप्रधानराज्यं विद्यते। अत्रएलाआर्द्ररक,नारंगफलं,सेवफलं-चायं,पीनशिक च प्रामुख्येण उत्पाद्यते। सम्पूर्णभारते एलायाः सर्वाधिकम् उत्पादनं सिक्किमराज्ये भवति । आधुनिकोद्योगाः अपि अत्र तीव्रगत्या विकसिताः जायमानाः सन्ति।
सिक्किमे पर्यटनस्य पर्याप्तसम्भावना विद्यते । गतवर्षेषु राज्यसर्वकारेणापि अस्योपरि पर्याप्तं ध्यानं दत्तमस्ति । खननोद्योगः अपि अत्र मुख्य-उद्योगेषु अस्ति।
2006 तमे वर्षे ‘नाथुला दर्रा’ इत्यस्य उद्घाटनेन सिक्किमस्य अर्थव्यवस्थायां सकारात्मक परिवर्तनम् अपि दृश्यते।