Essay on Mahashivratri in Sanskrit
सामन्यतया देवतापूजार्थं दिवासमय: एव प्रशस्त: । किन्तु शिवरात्रिपर्वणि तस्य नामानुगुणं रात्रिरेव प्रशस्तकाल: पूजार्थम् ।सम्पूर्णम् उपवासं कृत्वा रात्रौ जागरणम् आचरणीयम् । रात्रौ एव पूजा करणीया इति । कलियुगे चतुर्दश्यां रात्रौ केवलं भूमौ सञ्चरन् समस्तस्थावरजङ्गमेषु सङ्क्रमिष्यामि । समग्रे वर्षे कृतं पापं परिहरामि । दिवासमये तद्दिने एवं महिमा न भवति इति महेश्वर: एव अवदत् इति शास्त्रवाक्यम् अस्ति ।
शिवरात्र्याचरणं स्यात् शिवस्य प्रियं यथा शिवस्य ध्यानानन्द: आत्मगुणसम्पत्ति: अत्यन्तं प्रियौ स्त: । सर्वभूतेषु दया, निरसूया, शुचित्वम्, अनायास:, क्षमागुण:, अकार्पण्यभाव:, मङ्गलं, दुराशां विना जीवनम् इत्येतानि एव अष्ट आत्मगुणा: ।
अहिंसा, सत्यम्, अक्रोध:, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् । पूर्वदिने रात्रौ उपवासं कृत्वा प्रात: नित्यकर्माणि समाप्य शुचिर्भूत्वा निर्विघ्नतया व्रतमिदं परिसमाप्तिं गच्छतु इति प्रार्थनां समर्प्य सङ्कल्पं कुर्वन्ति ।
शतरुद्रीयं, श्रुतिसूक्ती:, शिवपञ्चाक्षरमहामन्त्रं, पुरुषसूक्तं च वदन्त: पञ्चगव्येन पञ्चामृतेन च शिवलिङ्गस्य अभिषेकं कुर्वन्ति । ध्यानसमाधिरूपम् आन्तरिकपूजया सह आवाहन-आसन-अर्घ्य-पाद्य-आचमनीय-अभिषेक-वस्त्र-उपवीत-गन्ध-पुष्प-धूप-दीप-अर्चन-नैवेद्य-प्रदक्षिणनमस्कार-स्तोत्र-नृत्य-गीत-वाद्यरूपा बाह्यपूजा अपि तद्दिने आचर्यते । तत्रापि विशेषतया षोडशोपचारेषु अभिषेक: शिवस्य अत्यन्तं प्रिय: इति उक्तम् अस्ति शास्त्रेषु । अलङ्कारप्रियः विष्णु: अभिषेकप्रिय: शिव: इति ।