
Essay on Lord Shiva in Sanskrit
शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। शिवः कैलासे निवसति। सः एव विश्वनाशकोऽस्ति। तस्य भार्या नाम पार्वती अस्ति। सः भस्मेन अवलिप्तः। शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम “चन्द्रशेखरः” इति। समुद्रमन्थनकाले उत्थित-हलाहलविषं पीत्वा शिवः नीलकण्ठः सञ्जातः। नीलकण्ठः सः कण्ठे सर्पं धरति।
तस्य त्रीणि नेत्राणि सन्ति। हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति। सः पञ्चाननः, शंङ्कर: इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः। शिवः शिवलिङ्गस्य रूपे अपि पूज्यते। भारते शिवस्य द्वादश ज्योतिर्लिङ्गानि सन्ति। तानि प्रसिद्धानि तीर्थक्षेत्राणि सन्ति।

