Essay On Gantantra Diwas In Sanskrit
गणतंत्र दिवसः पर संस्कृत निबंध। Republic Day Essay in Sanskrit : गणतंत्र दिवस: अस्माकं महान् राष्ट्रीय दिवसः अस्ति। प्रतिवर्षं जनवरीमासस्य षड्विंशति तारक्यायाम् एषः दिवसः भारतीयैः मन्यते। 1950 तमे वर्षे अस्मिन् दिवसे भारतराष्ट्रं गणतंत्रमुद्घोषितम्। तद्दिवसान् अयं राष्ट्रदिवसः ‘गणतंत्र दिवसः’ इति नाम्ना महता उल्लासेन मन्यते। इमं राष्ट्रोत्सवं द्रष्टुं प्रात:काले एवं जनाः ‘इण्डियागेट’ समीपे एकत्रिताः भवन्ति। राजधान्यां वातावरणम् उत्साहपूर्णं भवन्ति। विद्यालयेषु राष्ट्रीय ध्वजारोहणं भवति। छात्राः अनेकान् कार्यक्रमान् सम्पादयन्ति। अन्येषु कार्यालयेषु अपि ध्वजारोहणं भवति।
गणतंत्र दिवस: अस्माकं महान् राष्ट्रीय दिवसः अस्ति। प्रतिवर्षं जनवरीमासस्य षड्विंशति तारक्यायाम् एषः दिवसः भारतीयैः मन्यते। 1950 तमे वर्षे अस्मिन् दिवसे भारतराष्ट्रं गणतंत्रमुद्घोषितम्। तद्दिवसान् अयं राष्ट्रदिवसः ‘गणतंत्र दिवसः’ इति नाम्ना महता उल्लासेन मन्यते।
इमं राष्ट्रोत्सवं द्रष्टुं प्रात:काले एवं जनाः ‘इण्डियागेट’ समीपे एकत्रिताः भवन्ति। राजधान्यां वातावरणम् उत्साहपूर्णं भवन्ति। विद्यालयेषु राष्ट्रीय ध्वजारोहणं भवति।
छात्राः अनेकान् कार्यक्रमान् सम्पादयन्ति। अन्येषु कार्यालयेषु अपि ध्वजारोहणं भवति।
दिल्लीनगरे प्रभातकाले एव राष्ट्रपति महोदयस्य शोभायात्रा प्रचलति। सः भारतीयसेनायाः त्रिभ्यः सेनाङ्गेभ्यः अभिवादनं स्वीकरोति। ततः राष्ट्रपति महोदयः शौर्यपदकानां वितरणं करोति। तत्पश्चात् भारतस्य सर्वेषां प्रदेशानां शोभायात्राः स्वसंस्कृतिं प्रदर्शयन्ति, मार्गेषु गच्छन्ति। इमा: शोभायात्रा; अतीव दर्शनीयाः सन्ति, इमां द्रष्टुं विविधप्रान्तानां जनाः आगच्छन्ति, महोत्सवस्य शोभां च वर्धयन्ति। तदनंतरं विद्यार्थिनः राष्ट्रगीतानि गायन्तिः। पथसंचलनं कुर्वन्ति। सम्पूर्णं राजपथं भारतस्य जयघोषेन गुंजितं भवति। अस्मिन्नवसरे वायुयानेभ्यः आकाशात् पुष्पवृष्टिर्भवति। तदा वातावरणं मनोहारि वर्तते।
गणतंत्र दिवसस्य महत्त्वं विशेषमस्ति यत् अयं दिवसः सर्वान् राष्ट्रसेवायै प्रेरयति। अस्मिन् दिवसे प्रत्येकनागरिकस्य मनसि देशप्रेम भावना उद्भवति। ये जना: गणतंत्रदिवससमारोह’ द्रष्टुं न गच्छन्ति ते दूरदर्शन द्वारा कार्यक्रमं पश्यन्ति। एतत् राष्ट्रभक्ति युक्तं कार्यक्रमं दृष्ट्वा राष्ट्रसेवायै प्रतिज्ञा कुर्वन्ति।
सायंकाले राष्ट्रपतिभवनं तथा अन्यानि राजकीय कार्यालयानि दीपमालाभिः प्रकाश्यन्ते।
एवं प्रतिवर्षम् अस्यां तिथौ समारोह आयोजनेन नागरिकस्य मनसि स्वराष्ट्रं प्रति कर्त्तव्य भावना वर्धयति अत: सर्वे नागरिका: सोत्साहेन, गणतंत्रदिवसं मानयन्ति।